________________
१६०
हे राजमातरिति वाचमहो ! कथं त्वं,
ब्रूषेऽवधीन्नरपतिं सचिवो, जनः किम् ? |
प्रत्येष्यतीत्थमनुचिन्तय चेतसि स्वे',
चन्द्रराजचरित्रम्
वाच्यं विचार्य विदुषा ननु सर्वतोऽतः १ ।। ४६ ।।
विद्युल्लतेव चपला वनिताजनानां,
वामा च बुद्धिरिति शास्त्रविदो वदन्ति । तत् त्वं यथार्थमकरोरमुनाऽप्रियेण,
वाक्येन, नो प्रकृतिरञ्चति भिन्नभावम्' ।। ४७ ।।
आकर्ण्य वाचमवदद् विजने प्रधानं,
'किं लप्स्यसे नृपतिशोधनतो ?, यदेवम् । उद्घाटनं प्रकुरुषे मम, तेन तेऽतः ५,
क्षेमं भवेन्नहि कदापि विचारचुञ्चो ! ।। ४८ ।।
विद्यां प्रसाधयितुमैन्नृपतिस्त्वदीयो,
विद्याधरस्य किल ते कथितं रहस्यम् । नामाऽपि तस्य नृपतेर्ग्रहणेन नैव,
कार्यं भवेदिति विचिन्तय मार्गमन्यम् ।। ४९ ।।
त्वं मे सखा तव नृपोऽस्म्यहमित्थमेव,
संघोषयस्व सकले मम मण्डले त्वम् ।
नो चेत् तवाऽपि परिणामविधावनर्थं,
स्यादित्यवेहि मम मन्युवशेन मन्त्रिन् !' ॥ ५० ॥
१. 'प्रत्येति नैव, परिहासकथेयमस्ति' इति पाठा० ।। २. 'सर्वतो हि' इति पाठा० ।। ३. 'बोभोति' इति पाठा० ।। ४. 'प्रमुग्धे' इति पाठा० ।। ५. 'तेऽपि' इति, 'तेऽस्मि' इति वा पाठा० ।। ६. 'कार्यं विचिन्तय नवं किमपि प्रधान ! ।।' इति पाठा० ।।