________________
सर्गः ४
'नाऽहं नृपस्य किमपीह विदाङ्करोमि
सर्वं तवैव चरितं किल तत्र मन्ये ।। ४१ ।।
संकीर्तयस्यवगुणं मम यत्र तत्र,
किन्तु त्वमेव मम चन्द्रसुतं व्यहिंसीः । त्वत्तो जगत्यपि कृतघ्नतरो न लोको,
ब्रूषे पुरो मम कथं ननु निस्त्रपस्त्वम् ' ' ।। ४२ ।।
इत्थं निशम्यं वचनं निजगाद' मन्त्री,
'मातः कथं नु वदसीत्थमतथ्यमेव । वृद्धाऽसि चेतय मतिं वद कोऽपि साक्षी,
१५९
यच्चन्द्रराजहननं वदसे निकृष्टम् ।। ४३ ।
एवं कथं वदसि, नैव विचार्य मिथ्या,
दोषार्पणं भवति साधु न साधुलोके ।
नो ते भयं भवति किं परमेश्वराद् वा ?
यो वेत्ति दुष्कृतमथो सुकृतिं जनानाम् ।। ४४ ।। शिक्षानिमित्तमवदं तव सन्निधौ तत्,
किन्तु प्रकोपजनकं समभूत् तवादः ।
मूर्खस्य सत्यमुपदेशवचो न शान्त्यै,
क्षीरं तनोति भुजगस्य विषं यथैव ।। ४५ ।
९. इतोऽग्रे - ' त्वां वेद्मि दुष्ट ! बहुकालत एव किं ते, हि स्यात् प्रकाशमत एव करोमि नैव । मुग्धाऽस्मि यद्यपि भवानपि नैव विद्वान्, कोऽपि च्छली भवति कोऽपि कृतघ्न एव ।।' इति निष्कासितः श्लोको दृश्यते ।। २. 'प्रजगाद' इति पाठा० ।। ३. 'हे राजमातरिति किं वदसि त्वमेव ? ।' इति पाठा० ।। ४. 'चिन्तय' इति पाठा० ।। ५. ' - राद्धि' इति पाठा० ।। ६. 'जनस्य' इति पाठा० ।। ७. ‘त्वां यत्प्रसादयितुमब्रवमत्र वाचो, जातं तदेव विपरीतफलाय मेऽद्य ।।' इति
पाठा० ।।