________________
१५८
चन्द्रराजचरित्रम् तासामनेन हृदयं नियतं विरक्तं,
स्यादत्र देवि ! परिचिन्तय तत्प्रकारम् ।। ३६ ।। आगत्य ताः प्रकृतयः प्रवदन्ति मां यत्,
___ संदर्शयस्व नृपतिं किमु वा निदेशम् । गन्तुं वनाय वितर, प्रभुमन्तरेण,
नैवाऽस्ति नः सुखकरं नगरं कदापि ।। ३७ ॥ त्वं भूपतिं निजवशे प्रविधाय गुप्तं,
संस्थापयस्यखिलनागरलोक एतत् । नो मृष्यते, यदि रुषस्तव देहि मह्यं,
दण्डं, कुरुष्व विपरीतमतिं न तावत् ॥ ३८ ॥ पृच्छन्ति नागरजनाः सततं किमेभ्यो,
दास्यामि वाचिकमहं वद राजमातः ! । मासं प्रतार्य सकलान् प्रतिबोध्य सम्य
गस्थां, वदामि वद किं ननु साम्प्रतं ताम् ॥ ३९ ।। मन्यस्व वा नहि तथाऽपि वदन्ति लोका,
मात्रैव चन्द्रनृपतिः प्रतिगोपितोऽभूत् । इत्थं त्वमिच्छसि नृपासन आसितुं यत्,
तन्न क्षमं शिशुविचेष्टितवत् सुमातः५ !" ॥ ४० ॥ श्रुत्वा तदीयवचनं परिरुष्टचेता,
ऊचे प्रधानमथ वीरमती प्रगल्भा ।
१. 'उद्वेगमाप्तहृदयं' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. 'वनितेव मति' इति पाठा० ।। ४. 'हि ।।' इति पाठा० ।। ५. 'प्रमुग्धे' इति पाठा० ।। ६. 'परिक्रुद्धचेता' इति पाठा० ।।