________________
सर्गः - ४
१५७ राज्यासनं समधितिष्ठति यत्र भूप
स्तत्रैव सौख्यमधिगच्छति सत्प्रजालिः । तस्माद् भवेद् यदि नृपो नहि नः समक्षं,
सर्वे वयं गहनमेव समाश्रयामः' ॥ ३२ ॥ मन्त्री जगाद 'न च मे चिरतोऽप्यभीष्टं,
जातं धराधिपतिदर्शनमद्य यावत् । तस्मान्ममाऽपि हृदयं भवदीयहद्ध
दौत्सुक्यमञ्चति नरेन्द्रविलोकनाय ॥ ३३ ॥ धैर्यं समाश्रयत खेदमपाकुरुध्वम्,
सौख्येन तिष्ठत पुरेव विधद्ध्वमिष्टम् । युष्माकमाशु सविधे विनिवेदयिष्ये,
शुद्धिं नृपस्य सकलां च यथास्थितां द्राक्' ।। ३४ ।। इत्थं प्रजाः स सचिवः परिबोध्य सम्य
__गन्तःपुरं नरपतेः प्रविवेश धीरः । गत्वा प्रणम्य नृपमातरमाजगाद,
मन्त्री कृताञ्जलिपुटो ननु नागरोक्तम् ॥ ३५ ॥ "मातः ! कथं नरपतिः परिगुप्त एव,
स्थास्यत्यसौ तव प्रजाः सकलाः समानाः । १. 'मन्त्री जगाद नहि मे बहु कालतोऽपि, जातं सुदर्शनमहो नृपते: सुलोकाः ! ।।' इति पाठा० ।। २. '-दुद्वेगमञ्चति' इति पाठा० ।। ३. 'अन्विष्य सर्वविषयं परिबुध्य सर्वं, युष्माकमाशु सविधे विनिवेदयिष्ये । पूर्वं सुखेन परितिष्ठत मा स्म खेदं, कार्टः क्षितीशपरिशोधनमाशु कुर्वे ।।' इति पाठा० ।। ४. स्थास्यत्यतः सकलमेव प्रजासमानम्।' इति पाठा० ।।