________________
१५६
किन्त्वस्य सङ्गमचिरान्न सुते ! लभेथा,
धैर्यं विधाय परिपालय धर्ममग्र्यम्' । इत्थं पितुर्वचनतः समवाप्य हर्षं,
दध्यौ सदैव हृदये पतिमिद्धभक्तिः ।। २७ ।।
एवं विलोक्य नहि दुःखसुखं कदापि,
कार्यं बुधैरितरवत् खलु मोहमाप्य' । प्राग्जन्मकर्मपरिणामफलं न कोऽपि,
रोद्धुं प्रभुर्भवति कौशलकोटितोऽपि ।। २८ ।। चन्द्रो बभूव कृकवाकुरथाऽस्य मासो,
चन्द्रराजचरित्रम्
जातः, प्रकाशमकरोन्न गुणावली तम् । श्वश्रूभयेन, विविधैरुपचारजातैः,
शुश्रूषते स्म विहगं पतिमाप्तबुद्धया ।। २९ ।
आभापुरीगतजना न विलोक्य चन्द्रं,
सन्तापयुक्तहृदया न्यगदन्नमात्यम् ।
'संदर्शय स्वनृपतिं, न हि चेद् ददस्वा
ऽऽज्ञांनो, वयं विषयमन्यमितो व्रजामः ।। ३० ।।
धर्मो विभाति दयया न विना यथैव,
नो चाऽन्ववायमपहाय मनुष्यजन्म ।
दन्तं विना नहि गजो, नगरी तथैव,
भूपं विनाऽपि रचनारुचिरा श्रियाऽऽढ्या' ।। ३१ ।।
१. 'भूमौ' इति पाठा० ।। २. '- जालम् ।' इति पाठा० ।। ३. 'सद्वंशतो नहि मनुष्यभवः कदाऽपि ।' इति पाठा० ।। ४. 'भूपं [ चन्द्रं ] विना नहि विराजति सम्प्रतीह ।।' इति पाठा० ।।