________________
सर्गः - ४
१५५ 'प्राग्देशवासनिरतामवगच्छ बाले !,
मां, ते प्रयोजनमिहाऽस्ति किमु प्रमुग्धे !' । वैराग्यरागरसरञ्जितभावपूर्णा,
श्रीचन्द्रभूपतिगुणान् निजगाद साध्वी ।। २१ ॥ 'देशेऽस्ति कोऽपि जनदुःखविनाशकारी,
तस्मिन् वदाऽऽशु नृपतिर्द्विजराजकान्तः ?' । योगिन्युवाच 'शृणु केशरकान्तदेह
श्चन्द्राभिधो नृपवरोऽरिमहीध्रवज्रः ॥ २२ ॥ तस्याऽधिपस्य सुयशः परितो भ्रमन्ती,
___ गायामि, तस्य निकटे न्यवसं शुभाङ्गि ! । प्राणाधिकं च परिवेद्मि तदीयमन्त्रं,
खादामि, राजतनये ! स मदीयभूपः ॥ २३ ॥ किन्त्वेनमाशु चरणायुधतामनैषीत्,
क्रोधाकुला कुधिषणा किल तद्विमाता । तेनैव तं परिविमुच्य समागताऽस्मि,
तीर्थाटनाय, नहि दुःखममुष्य सह्यम्' ।। २४ ।। अस्या वचः परिणिशम्य बहुप्रहर्ष
सन्दोहसञ्चलितचित्ततया तदैव । आदाय तां स्वजनकस्य पुरो जगाम,
राजाऽपि तद्वचनतः समवाप मोदम् ॥ २५ ॥ ऊचे, 'त्वदीयवचनं सकलं यथार्थं,
वत्से !, तवैव सुकृतस्य फलात् समग्रम् । सम्पत्स्यते कपटतस्तव पाणिहर्ता,
दूरेऽस्ति चारुतरकौशलशोभमानः ॥ २६ ॥ १. 'वर्ति तस्य सुयशः' इति पाठा० ।।