________________
१५४
सद्देशनाभिरमलान् प्रविधाय भक्ति
प्रह्वांश्चकार परमेश्वरपादक ।। १५ ।।
श्रीप्रेमलामपि सुभक्तिदृढां विधाय,
दत्त्वा प्रहृष्टहृदयो नवकारमन्त्रम् ।
योगीश्वरोऽथ निरगात् स यथेष्टदेशं,
चन्द्रराजचरित्रम्
सा तं जजाप सततं परिशुद्धभक्त्या ।। १६ ।
तीर्थङ्करार्चननुतिप्रमुखैकदृष्टिः,
सा प्रेमला निरवधि प्रजजाप मन्त्रम् ।
तामेकदाऽथ समुपेत्य जगाद देवी,
'पुत्रि ! त्वमाचर जपं तव षोडशे ऽब्दे' ।। १७ ।। स्वामी मिलिष्यति जहीहि शुचं शुभाङ्गि !,
सद्भावतोऽत्र जिनधर्मवरं भजस्व ।' उक्त्वेति शासनसुरी निरगात् ततः सा,
तीर्थेशभक्तजनदुःखविनाशदक्षा ।। १८ ।।
इत्थं निशम्य वचनं घनमाप हर्षं,
सा प्रेमला द्विगुणतः प्रचचार धर्मम् । आगादितो निजकरैः परिवादयन्ती,
वीणां तदीयसदने व्रतिनी कदापि ।। १९ ।।
,
सत्कृत्य तां नृपसुता बहुमानतोऽस्याः,
शुश्राव गीतिसहितां परिवादिनीं सा । 'देशात् कुतोऽत्र समगा' इति पृच्छति स्म,
तां चन्द्रभूपपरिशोधनलोलुपत्वात् ।। २० ।।
१. ' षोडशाब्दे ।।' इति पाठा० ।।