________________
सर्गः
'आभापुरी सुरपुरीव चकास्ति पूर्व
देशेऽधिपः सुरपतिप्रतिमोऽस्ति चन्द्रः । जानासि तं पथिक ! कश्चिदहो ब्रवीतु,
वैदेशिकोऽसि तत एव च पृच्छ्यतेऽदः ' ।। १० ॥
'नाऽहं प्रवेद्मि भगिनि ! प्रबलप्रतापं,
चन्द्रं स चास्ति विषयात् परतो मदीयात्' । इत्थं निशम्य पथिकस्य वचो नितान्तं,
चिन्ताकुलाऽजनि नृपालसुता विलक्षा ।। ११ ।।
रात्रिन्दिवं गिरिणदीव न नेत्रयुग्मं,
धारां विना नृपतनूजनुषोऽवतस्थे ।
शोकेन शुष्कवदनाऽपि पुरो न कस्या
ऽप्याचष्ट राजतनया स्वमनीषितं सा ।। १२ ।।
सा प्रेमला धवलचन्द्रकलेव लेभे,
बाला नितान्ततनुतां विरहाग्निखिन्ना ।
प्रायः स्वभर्तृविरहे प्रमदाजनानां,
१५३
क्लेशोऽनिवार्यतर एव हि बोभवीति ।। १३ ।।
आगादितो हृदयवर्तितमोवितान
प्रध्वंसवासरमणिः किल चारणर्षिः ।
श्रुत्वा परिच्छदयुतो नृपतिः प्रणन्तुं,
श्रीप्रेमलां निजसुतां परिगृह्य चाऽगात् ।। १४ ।
गत्वा प्रणम्य समुपाविशदेष भूपः,
साधुः सुधारससमानवचोभिरेतान् ।
१. 'आभापुरी सुरपुरीव हि पूर्वदेशे, वर्वर्ति तत्र सुरराज इवाऽस्ति चन्द्रः ।' इति
पाठा० ।।