________________
१५२
चन्द्रराजचरित्रम् तावत् कुटुम्बसहितं खलु सिंहलेश
मित्यादिशन्नरपतिः सचिवाय तस्मै ॥ ४ ॥ श्रीसिंहलं सदयितं कनकध्वजं चा
थो हिंसकाख्यसचिवं कपिलां च धात्रीम् । पञ्चेन्द्रियं यतिरिवाऽऽशु चकार राजा,
संरुद्धचेष्टमवशं स्ववशं प्रसह्य ॥५॥ अन्यांस्तदैव मुमुचेऽस्य परिच्छदान् स,
राजा व्यधात् सपदि चन्द्रनृपस्य शोधम् । श्रीप्रेमलां निजगृहे प्रणिनाय सद्यो,
दानाय तामिति जगाद विचारचुञ्चः ॥ ६ ॥ 'दानं ददस्व तनये ! परिपृच्छ चास्मा
आभापुरेश्वरमये ! किल चन्द्रभूपम् । कैश्चिद् भवद्भिरवलोकितमित्थमेव,
नित्यं व्रतं समनुतिष्ठ शुभाशये ! त्वम्' ।। ७ ।। श्रीप्रेमला निजपितुर्वचनं निशम्य,
दानं ददावनुपकारकयाचकेभ्यः । पप्रच्छ चन्द्रनृपति, न हि कोऽपि तस्य,
वार्तामपि प्रणिजगाद नृपाङ्गजायै ॥ ८ ॥ श्रीप्रेमला गुणनिधिः प्रददौ यथेच्छं,
दानं निराकुलतया बहुमानपूर्वम् । तद्वंशजा( :) प्रकृतितः खलु दानशौण्डा,
__आज्ञापितास्तु गुरुभिः किमु वर्णनीयम्' ? ॥९॥ १. 'पञ्चेन्द्रियं निजवशे कुरुते यथैव, योगी तथैव विदधौ स्ववशे महीपः।।' इति पाठा० ।। २. 'जाजायते किमु गुरोरनुरोधतो हि ।।' इति पाठा०