________________
शासनसम्राट्पूज्याचार्यश्रीविजयनेमिसूरीश्वरपट्टधरपूज्याचार्य श्रीविजयविज्ञानसूरीश्वरपट्टधरप्राकृतविशारद पूज्याचार्य श्रीविजयश्रीकस्तूरसूरिप्रणीतं
चन्द्रचरित्रे चतुर्थः सर्गः
(वसन्ततिलकावृत्तम्) तन्मन्त्रिराजवचनं प्रणिशम्य राजा,
तेभ्यो ददावभयदानमवाप्तहर्षः । किं सत्यवाक्यकथनान्न नरा लभन्ते,
राजादितोषजनितं फलमत्र' लोके ।।१।। सद्बुद्धिनामसचिवं निजगाद राजा,
'सत्यं त्वयोक्तमखिलं मतिमांश्छलोऽयम् । श्रीसिंहलस्य, न हि दोषलवोऽपि मन्त्रिन् !,
सम्भाव्यते स्वदुहितुर्निपुणं विचार्य ॥ २ ॥ कोऽप्यन्य एव तनयामुदवोढ सत्यं,
व्याजादमुष्य नृपतेरधमस्य मन्त्रिन् ! । व्यर्थं सुतां मम विडम्बयतेऽपि कुष्ठी,
___नाऽयं कदापि दुहितुः पतिरस्ति जाल्मः ॥ ३ ॥ यावन्न चन्द्रनृपतेः परिशुद्धिलाभ:६,
कारागतं कुरु खलं प्रहरीक्ष्यचेष्टम् ।
१. 'मुदमत्र' इति पाठा० ।। २. 'प्रजगाद' इति पाठा० ।। ३. '-लवोऽस्ति' इति पाठा० ।। ४. 'सम्भाव्यते हि दुहितुर्निपुणेन दृष्ट्वा ।।' इति पाठा० ।। ५. '-ते हि' इति पाठा० ।। ६. 'परिशोधनं मे' इति पाठा० ।। ७. 'यायाद्वशे परिविधत्स्व निजेऽविचारम् ।' इति पाठा० ।।