________________
१४८
चन्द्रराजचरित्रम् संदीपय, क्रोधपरीतचित्तः, .
कस्याऽपि नाऽहं प्रियकारकोऽस्मि ॥ २२७ ॥ मन्त्री चतुर्थः समयं निरीक्ष्य,
जगाद सत्यं "शृणु भूमिनाथ ! । वक्तव्यमेतन्नहि वाक्यमस्ति,
तथाऽपि तेऽने कथयामि नाथ ! ॥ २२८ ॥ श्रीसिंहलेशस्य पुरः समेत्य,
सर्वे वयं साञ्जलयस्तमाशु । उद्वाहसम्बन्धकृतेऽत्यजत्रं,
सम्प्रार्थयामः परमाग्रहेण ॥ २२९ ।। अनेकसम्प्रार्थनतोऽनुमेने,
तदा वयं तं न्यगदाम शीघ्रम् । कुमारमादर्शय माररूपं,
लप्स्यामहे नेत्रफलं विलोक्य ।। २३० ।। उवाच राजा तनयो मदीयो,
विद्यालयेऽभ्यस्यति साम्प्रतं यत् । विद्यामतो द्रक्ष्यथ नैव यूयं,
___ रूपं तदीयं ननु दर्शनीयम् ।। २३१ ॥ निर्बन्धमत्यन्तमकार्म राजन् !,
यदा तदाऽस्मान् परिबोध्य मन्त्री । दीनारकोटीरददच्चतुर्यो
__ऽस्मभ्यं प्रतार्यच्छलनापरः सः ।। २३२ ।। १. "हि ।' इति पाठा० ।।