________________
१४९
सर्गः - ३ अस्थाम ते मन्त्रिपदे नियुक्ता,
वयं तथाऽप्यस्य वशेऽभवाम । लोभाद् विवाहस्य विनिश्चयं चा
ऽकार्षीत् तदा सिंहलभूपतिः सः ॥ २३३ ।। असौ कुमारः कमनीयकान्ति
न वेत्यदर्शाम न तं वयं हि । श्रीहिंसकोऽस्मासु महच्छलं यद्,
व्यधात् तदद्यैव वयं च विद्मः ।। २३४ ।। सत्यं तवाऽने कथितं नृपाल !,
नाऽसत्यमण्वप्यवतिष्ठतेऽत्र । कौटिल्यबुद्ध्या रचितं तदत्र,
दोषं महान्तं गणयस्व नाथ ! ॥ २३५ ॥ विधीयतां योग्यमिह प्रभो ! न:,
संक्षम्यतां दूषणमप्यदो न" । इत्थं तदीयं वचनं निशम्य,
सत्योक्तितोऽस्मिन् प्रतुतोष भूपः ।। २३६ ॥ विहस्य राजा निजगाद सत्यं,
वचस्त्वदीयं ननु कश्मलं न । यथार्थवाक्यानहि कस्य चेतः,
प्रसीदति प्राणिवरस्य लोके ।। २३७ ।।
१. 'प्रभु!' इति पाठा० ।। २. 'क्षमा न दोषस्य विधीयतां च' इति पाठा० ।। ३. 'प्राणिजनस्य' इति पाठा० ।।