________________
१४७
सर्गः - ३ भुक्तस्य मे पूर्वदिने बभूवा
ऽजीर्णं ततो द्राक्छमलाये राजन् ! अमी मयीते' व्यदधुः समस्तां,
वधूवरोद्वाहनिमित्तवार्ताम् ॥ २२२ ॥ असौ कुमारः सुभगो न वेति,
मया न दृष्टो नयनेन नाथ !' । इति द्वितीयस्य वचो निशम्य,
राजा मृषावादिनमेव मेने ॥ २२३ ॥ ऊचे तृतीयोऽपि, 'यदा विवाह
वार्ता बभूवाऽथ तदा नृपस्य । क्रोधादगच्छत् किल भागिनेयो,
मां प्रैषयद् बोधयितुं नृपस्तम् ।। २२४ ॥ यदाऽगमं तं परिबोध्य तावत्,
कृतं समस्तं खलु तैर्यथावत् । किं कुब्जको वाऽथ स काण एव,
__ राजन् ! कुमारो न मया व्यलोकि' ।। २२५ ॥ राजा तदीयं वचनं निशम्य,
सविस्मयस्तत्परिबुद्ध्य बुद्धया । मिथ्यावचश्चाऽथ तुरीयमित्र
मालोकयामास स भावपूर्णः ।। २२६ ॥ उवाच 'मन्त्रिन् ! वद सत्यवाक्यं,
मिथ्यावचोभिर्न मदीयमन्युम् । १. 'मयि गते सति' इति टि० ।। २. 'गतस्य मेऽमी व्यदधुः समस्तं, समागम नैव किलाऽवजग्मुः ।।' इति, 'वधूवरोद्वाहनिमित्तचेष्टितम्' इति च पाठा० ।। ३. 'नृपस्य तस्य' इति पाठा० ।।