________________
१४६
यदा वयं सिंहलभूमिनाथ
स्याग्रे विवाहस्य कथामकार्षम् ।। २१६ ॥
तदोर्मिकां पाणितले न दृष्ट्वा,
तां मार्गितुं यावदगां, तदाऽमी ।
'प्रचक्रिरे निश्चयमागतं मां,
तथैव सर्वं कथयाम्बभूवुः ।। २१७ ।।
अतः कुमारस्य मया न दृष्टं,
रूपं कथं नाथ ! निवेद्यतां तत् ।
यत् तत्र जातं तदहं तवाऽग्रे,
न्यवेदयं भूमिप ! सत्यमेव' ।। २१८ ।।
राजा तदीयं वचनं निशम्य,
चन्द्रराजचरित्रम्
छलं विदित्वा न जगाद किञ्चित् ।
प्रभोः पुरः किं लभते मृषाऽपि,
स्थानं कदापि प्रविवेकिनो हि ।। २९९ ।।
इत्थं द्वितीयोऽपि जगाद भूपं,
'व्याजं समास्थाय शृणु प्रभो ! मे ।
नाऽहं तवाग्रे निगदामि मिथ्या,
सत्यं यथावत् कथयामि नाथ ! ।। २२० ॥
भुजङ्गमो यद्यपि वक्रगामी,
तथाऽपि नासौ स्वविले भुजङ्गः ।
मिथ्या तवाऽग्रे न कदापि सत्यं,
बोभूयते भूमिपुरन्दरस्य ।। २२१ ।।
१. 'प्रचक्रतुर्नि -' इति, 'चक्रुर्यथा' इति पाठा० ।। २. ' - भूव' इति पाठा० ।।