________________
१४५
सर्गः - ३ आहूय तान् पृच्छ महीश्वर ! त्वं,
ते राजपुत्रं ददृशुर्न वेति ॥ २१० ॥ यदि स्वरूपं कनकध्वजस्य,
दृष्टं वदिष्यन्ति तदा त एव । चेत्कङ्कणं हस्ततले तदा नो,
प्रयोजनं स्यान्मुकुरस्य राजन् !' ॥ २११ ॥ इति प्रधानस्य वचो निशम्य,
प्रहृष्य तानाह्वयति स्म भूपः । तानागतान् प्रेक्ष्य जगाद 'यूयं,
ब्रूताऽत्र सत्यं नृपतेः सभायाम् ॥ २१२ ॥ श्रीप्रेमलायाः कनकध्वजेन,
सार्द्ध विवाहाय गता हि यूयम् । तत्र स्वनेत्रैर्नृपनन्दनस्यै
क्षिध्वं न वा किं वदत स्वरूपम् ।। २१३ ।। अप्यल्पमात्रं न मृषाऽभिधत्त,
यथार्थवाचं कथयध्वमाशु । पापं न कस्याऽपि कदापि लोके,
प्रच्छादितं तिष्ठति मन्त्रिमुख्याः !' ॥ २१४ ॥ इत्थं महीपस्य वचो निशम्य
जगाद कोऽप्यन्यतमश्छलेन । 'त्वत्तो न किञ्चिद्वचनं सुगुप्तं,
संतिष्ठते क्वाऽपि महेन्द्रकल्प ! ॥ २१५ ॥ तवाऽस्मि भृत्यः परिपोषितश्च,
वदामि सत्यं शृणु नाथ ! वाक्यम् ।