________________
१४४
चन्द्रराजचरित्रम् पितुः सकोपस्य मनागपि त्वं,
चिन्तां विदध्या न, स कल्य एव । त्वयि प्रसद्याऽऽशु पुरेव राजा,
प्रेमाञ्चितः स्थास्यति पुत्रि ! सत्यम्' । २०५ ।। इत्थं प्रधानस्य वचो निशम्य,
सा प्रेमला स्वस्थमना बभूव । सदाश्रयं प्राप्य मुमूर्षुलोको,
न मोदते किं खलु पामरोऽपि' ? ।। २०६ ॥ इतो विवस्वानपरार्णवे किं,
स्नात्वा सुरक्तं वसनं वसानः । सद्यः प्रतीचीवदनारवन्दि,
संचुम्बितुं सक्त इवाऽऽबभासे । २०७ ॥ तथाऽत्र सन्ध्यारुणरागरक्ता,
द्यौराबभासे सह कामिलोकैः । कुमुद्वती मोदमवाप चञ्च
. त्सुधांशुबिम्बं प्रविलोक्य सद्यः ॥ २०८ ॥ तस्मिन् क्षणे नम्रशिराः प्रधानः,
सभां समासाद्य नृपं ननाम । उवाच 'राजन् ! कुरु राज्यकार्य,
चिन्तां परित्यज्य विशालबुद्धे ! ॥ २०९ ॥ ये मन्त्रिणः सिंहलभूपपार्श्वे,
गतास्तदानीं वरदर्शनाय ।
१. 'प्राकृतोऽपि' इति पाठा० ।।