________________
सर्गः - ३
१४३
ना
परीक्ष्य पश्चात् क्रियतां यथेष्टं,
संतिष्ठते राजसुताऽपि तावत्' ।। १९९ ।। इत्थं प्रधानस्य वचो निशम्य,
विचारयामास महीपतिः सः । विचारयोग्यं वचनं कुमार्याः,
स मार्गणीयः खलु चन्द्रभूपः ।। २०० ॥ 'त्वमेव मन्त्रिन् ! सदने स्वकीये,
संस्थापयैनां, यदि सत्यवाक् स्यात् । इयं, तदाऽवश्यमवाप्स्यते शं,
नो चेद् वधोऽस्या नरिनर्ति शीर्षे' ।। २०१ ।। आयुःस्थितौ किञ्चिदपि प्रकर्तुं,
प्रभुमहीपोऽपि न जायते यत् । श्रीप्रेमला खड्गतलेऽपि गत्वा |
जिजीव भाग्यात् शुभकर्मजन्यात् ॥ २०२ ॥ मन्त्री तदा तां परिगृह्य गेहं,
__ समागमत् स्वीकृतसत्कृतिं ताम् । स्नानादिकृत्यं प्रविधाप्य सम्य
गाश्वासयामास रहः पितेव ॥ २०३ ।। 'शोकं वृथा मा कुरु राजपुत्रि !,
क्षिप्रं विधास्यामि तथा यथा सः । पाणिग्रहीता तव सन्निधौ द्राक्,
समागमिष्यत्यवशोऽपि दूरात्। २०४ ।। १. 'हि' इति पाठा० ।। २. 'वध्यपथेऽपि' इति पाठा० ।। ३. 'पुनः शुभं द्रक्ष्यति जीविता सा' इति पाठा० ।।