________________
१४२
संप्रत्ययस्ते यदि सिंहलेशे,
विधीयतामाशु ततोऽनुरूपम् ।
अन्यत् तवाग्रे निगदामि किं ते.
वशंवदाऽहं परिपालनीया ।। १९४ ।।
पिता स्वपुत्र्यां विदधीत कोपं,
तदा चलेन्नैव बलं परस्य ।
विधीयमानेऽथ विचार्य पूर्वम्'
कार्ये यशस्ते भविता महीश ! ।। ९९५ ।।
भाग्यं पितुः पाणितलेऽस्ति पुत्र्या,
स पालयेद्वा निधनं दिशेद्वा ।
पुत्रस्य भाग्यं भवति स्वतन्त्र
चन्द्रराजचरित्रम्
मित्येव भेदोऽस्ति तयोरिहाऽर्थे " ।। १९६ ।।
श्रीप्रेमलाया वचनं निशम्य,
नृपं समूचे विनयेन मन्त्री ।
'प्रभो ! न चाऽस्या वचनं मृषाऽस्ति,
कुष्ठी न चाऽस्याः पतिरस्ति मन्ये ।। १९७ ।।
आभानगर्या नृपतिः स चन्द्रो,
न वेति यावत् परिशोधयामि ।
तावद् गृहे तिष्ठतु राजकन्या,
सर्वं शुभं स्यान्ननु धर्मतोऽस्याः ।। १९८ ।।
यं वधार्हा तव कन्यकाऽस्ति,
सत्यं मृषा वेति वचोऽस्ति चाऽस्याः ।
१. 'परन्तु सम्यक् प्रविचारिते हि' इति पाठा० ।। २. 'विनाशने वा परिपालने वा ।' इति पाठा० ।। ३. ' आभानगर्यां वरिवर्ति चन्द्रो' इति पाठा० ।।