________________
सर्गः ३
-
पुनः स नाऽऽगादयमेव चाऽऽगात्,
कुष्ठी मदीये शयने निविश्य ।
मां प्रेमवाचा न्यगदद् विधातुं,
प्रीतिं जघन्यां छलनापटिष्ठः ।। १८८ ॥
नाऽऽकर्णयं तद्वचनं यदाऽहं,
तदा समागात् कपिलाऽस्य धात्री । प्रत्यङ्मुखीं मां परिबोधयन्ती,
जगाद 'तेऽयं न पतिर्द्वितीयः ' ।। १८९ ।।
सूर्योदयो यावदभून्न तावत्,
तत्रैव तस्थौ परिबोधयन्ती ।
अगृह्णतीं तद्वचनं भृशं मां,
निर्भर्त्स्य शीघ्रं बहिराजगाम ।। १९० ।।
रुदत्यसौ तत्र जगाद तार
'मागम्यतां भो ! विषकन्यकेयम् ।
यत्सङ्गतः कुष्ठरुजाऽभिभूतो
ऽभवत् कुमारः कनकध्वजोऽसौ ' ।। १९१ ।
निशम्य तस्या वचनं तदैव,
समागमत् तस्य पिता विषण्णः ।
१४१
परिच्छदैः सार्धमयं समुच्चै
रुरोद संछद्मकलाविधिज्ञः ।। १९२ ।।
स सिंहलेशो मयि यद्विधेयं,
व्यधात् समग्रं न हि चाऽस्ति शेषः ।
?
इदं मया ते पुरतः समस्तं,
न्यगादि यत्तेऽभिमतं कुरुष्व ।। १९३ ।।