________________
१४०
चन्द्रराजचरित्रम्
आहोस्विदेतत्पुरतः कदापि,
___ केनाऽपि चोक्तं तदयं ब्रवीति । किं वाऽस्य मातामहसंनिवासात्,
भवेदिदं ज्ञातमिति व्यचेतम् ॥ १८३ ।। मूढा न चाऽहं वचसो रहस्य
मवेदिषं तत्समये कथञ्चित् । अनन्तरं मोदकमस्य मन्त्रिन् !,
भोक्तुं वितीर्णं सरसं मया हि ।। १८४ ।। आस्वादयंस्तन्निजगाद 'गङ्गा
जलं यदि स्याद्धि तदा स्वदेत' । साऽऽश्चर्यमेतद्वचनं निशम्य,
विचारितं किं भणति प्रियो में ? ।। १८५ ॥ 'गङ्गानदी प्राग्दिशि वर्ततेऽयं,
प्रत्यग्दिशाधीशनृपालपुत्रः । कथं विजानाति पुनः स चाऽऽभा
पुरप्रशंसामकरोद् समोदम्' ।। १८६ ॥ इतोऽस्य मन्त्री खलु हिंसकाख्यः,
सङ्केततस्तं प्रजुहाव दुष्टः । । स मां परित्यज्य जगाम्, मन्त्री,
ह्यभर्त्सयन्मामनुधावमानाम् ।। १८७ ।।
१. '-सतो' इति पाठा० ।। २. 'व्यतर्कयम् ।।' इति पाठा० ।। ३. 'चाऽहं वचसो' इत्यस्य स्थाने 'तद्भावमहं' इति पाठा० ।। ४. 'प्रभुमें' इति पाठा० ।। ५. 'प्रत्यग्दिशायां वरिवर्ति तस्मात् ।।' इति पाठा० ।। ६. 'भृशं हि' इति पाठा०।।