________________
सर्गः - ३
१३९ श्रीवीरसेनस्य नृपस्य पुत्रः,
श्रीचन्द्रनामा नृपतिः सुरूपः ।। १७७ ॥ वदामि सत्यं, यदि तत् कदाचिद्,
मिथ्या भवेत् तस्करवन्ममाऽपि । दण्डो विधेयो भवता, मयैतद्,
लजां परित्यज्य समुच्यतेऽदः" ।। १७८ ।। उवाच मन्त्री 'वद राजपुत्रि !,
कथं विजानासि स चन्द्रभूपः । पतिर्ममाऽयं नहि तत्समग्रं,
पितुः समीपे परिमुच्य लजाम्' ॥ १७९ ॥ "विवाह्य मां चन्द्रनृपोऽथ रेमे,
द्यूते मया साकमसौ तदैव । आश्चर्यभूतं स जगाद तत्र,
यत्तत् पितस्त्वं शृणु राजमौले ! ॥ १८० ॥ 'आभानगर्या नृपतेर्गृहे यः,
पाशोऽस्ति साक्षाद् रसभारभुग्नः । स चेत् तदा क्रीडितुमद्य रागो,
. भृशं भवेदि'त्यगदत् तदा सः ॥ १८१ ॥ संश्रुत्य तद्वाक्यमिदं तदैव,
व्यचिन्तयं 'प्राग्दिशि सा पुरी क्व' । अयं प्रतीच्यां दिशि वर्तते मे,
प्रियः कथं वेत्ति तदीयवार्ताम् ॥ १८२ ॥ १. 'व्यचिन्तयं क्वाऽस्ति महेन्द्रदिक् सा ।' इति पाठा० ।। २. 'प्रभुः' इति
पाठा०।।