________________
१३८
निशम्य तद्वाक्यमुवाच राजा,
'साऽऽनीयतां, किन्तु विदूर एव ।
संस्थाप्यतां मे नयनाग्रतो नो,
संस्थापनीयाऽतिकुलक्षणत्वात् ' ' ।। १७२ ।।
सप्रेमलामाशु ततः प्रधान,
आनाय्य संस्थाप्य विदूरतो हि ।
उवाच राजान मियं समागा
च्छृणु प्रभो ! तद्वचनं विनीतम्' ।। १७३ ।।
आदेशतः सा न्यगदत्,
" पितर्मे
संश्रूयतां वाक्यमिदं यथार्थम् ।
कदाप्यसत्यं तव सन्निधौ न,
चन्द्रराजचरित्रम्
वदामि, यूयं प्रभवो यतो मे ।। १७४ ।।
असम्भवं मे वचनं तथा च,
लज्जे प्रवक्तुं च गुरोः समीपे ।
तथाऽपि तेऽग्रे कथयामि नूनं,
हिया विनाशं लभते हि कार्यम् ।। १७५ ।।
येन त्वया मे रचितो विवाहः,
स प्राणनाथो मम नाऽयमस्ति ।
जानामि राजन्ननुमानतोऽहं,
प्रभोऽत्र संदेहलवोऽपि नास्ति ।। १७६ ।।
यो मामुपायंस्त स पूर्वदेश,
आभानगर्यामवतिष्ठते हि ।
१. 'बोभूयतां सम्प्रति मन्त्रिराज ! ।।' इति पाठा० ।। २. 'लज्जे प्रवक्तुं तव सन्निधौ हि ।' इति पाठा० 11