________________
सर्गः
सा प्रेमला भूमिपतिं विवक्षुः,
-
३
निर्दोषतां स्वां न परं कदाचित् ।
सम्बोध्य तद् भूपमुदग्रयुक्ते
राहूय तस्या वचनं निशम्यम् ।। १६७ ।
विश्वास्यमन्यस्य वचो भवेच्चेत्
कुतो न तोकस्य निजस्य मन्त्रिन् ! |
कृत्वाऽनु तापाद् वरमादितो वा
विचार्य कार्यं यदभीप्सितं स्यात् ।। १६८ ।।
तदुक्तमाकर्ण्य सुधीः स मन्त्री,
कृताञ्जलिर्भूपतिमाचचक्षे |
परीक्षिता नाथ ! मया भृशं हि ।। १६९ ।।
'कन्या न ते सा विषकन्यकाऽस्ति,
सद्यो वधो युक्ततरो न तस्या
विचार्य कार्यं भवताऽपि सम्यक् ।
मुग्धाऽपि सा ते तनया यतस्ता
१३७
मानाय्य तस्या वचनं शृणु त्वम् ।। १७० ।।
मनोगतं तद्वचनं निशम्य,
पश्चाद् यथेष्टं कुरु हे नृपाल ! ।
तां चेत् तथाऽभोत्स्यत शीघ्रमेव,
प्रावासयिष्यत् स्वगृहात् तदैव' ।। १७१ ।।
१. ' सा प्रेमला भूमिपतिं विवक्षुः परीक्षिता स विषकन्यका न । संबोध्य भूपं नृपकन्यकां ता-माहूय तस्या वचनं निशम्यम् ।।' इति पाठा० ।। २. ' विदेशिनोऽदो वचनं निशम्य, कर्तुं न चेत्थं ननु जाघटीति । पश्चादवश्यं परिशोचनीयं, तत् किं हि कृत्यं ? परिशोच्यते यत् ।।' इति पाठा० ।। ३. 'चाण्डालवाक्यं प्रनिशम्य मन्त्री' इति पाठा० ।।