________________
१३६
चन्द्रराजचरित्रम् कृपाणमालोक्य भयं न लेभे,
__ नैवाऽत्र दोषं पितुरत्र मेने । न चैव चाण्डालगणस्य किञ्चित्,
सा कर्मदोषं गणयाम्बभूव ।। १६२ ।। इत्थं समीक्ष्य श्वपचो जगाद,
दुःखेऽपि किं त्वं विदधासि हर्षम् ?। । कुमारि ! मृत्यौ समुपस्थिते नो,
हसन्ति धीरा अपि विज्ञचित्ताः'१ ॥ १६३ ।। सा प्रेमलोवाच 'वदामि किं ते ?,
__ योग्यं न तेऽदो गदितुं सुबन्धो ! । आकर्णयेच्चेन्नृपतिस्तदाऽहं,
वक्ष्यामि नो चेत् कथने फलं किम् ? ।। १६४ ।। पिता मदीयं न वचः शृणोति,
तदेव मे दुःखतरं समस्ति । दैवं हि दुष्टं स्वविधौ नयज्ञं,
विमोहयत्येव बलादपि द्राक्'२ ।। १६५ ।। जनङ्गमस्तां परिमुच्य तत्र,
समागमन्मन्त्रिवरस्य पार्श्वम् । निवेदयामास कृताञ्जलिः स,
- 'प्रधान ! मद्वाक्यमिदं शृणु त्वम् ।। १६६ ॥
१. 'मातर्भयेऽस्मिन् समुपस्थिते नो, हसन्ति केचित् सुदृढा नरा हि ।।' इति पाठा० ।। २. 'केनाऽपि दुष्टेन स वञ्चितः सन्, विवेद दोषं नृपतिर्मदीयम् ।।' इति पाठा० ।।