________________
सर्गः - ३
१३५ सम्प्राप्य ते वध्यभुवं कुमारी,
संस्थाप्य तत्राऽसिमथाऽग्रहीषुः ॥ १५६ ॥ ऊचुः कुमारी 'स्मर देवमिष्टं,
राजाज्ञया ते वधमद्य कुर्मः । वयं स्वकुक्षेर्भरणाय राज्ञः,
सेवां विदध्मोऽस्ववशोऽतिगाम् ।। १५७ ।। त्वमुत्तमा राजसुता, तवाऽयं,
वधो न योग्योऽस्ति ममाऽधमस्य । नियोग एवंविध एव पूर्व
कर्मानुरोधेन किमत्र कुर्मः ।। १५८ ॥ स्त्रीरत्नभूताऽसि, वधेन तेऽद्य,
का स्याद् गतिर्मे विधिना हतस्य । सहस्रशो धिग् वधजीविका मे,
जातिं जघन्या न यतोऽपराऽस्ति ।। १५९ ।। आज्ञां नरेन्द्रस्य जनः समर्थः,
___ कः स्यात् परावर्तयितुं कुमारि !? । दोषो मदीयोऽत्र न तत्क्षमस्व',
जनोऽवशः सर्वजनानुकम्प्य: ॥ १६० ।। इतीरयित्वा निचकर्ष कोशात्,
खड्गं कृतान्ताकृतिकं तदैव । विलोक्यं तं राजसुता समुच्चै
हास निर्भीकतयाऽतिधीरा' ।। १६१ ।।
१. 'नृपराजपुत्रि ! ।।' इति पाठा० ।। २. 'सहस्रशो धिग् भवतान्ममाऽस्या, जातेर्वधेनैव विजीविकायाः ।।' इति पाठा० ।। ३. 'शासनेन' इति पाठा० ।। ४. 'राज्ञः प्रकुर्मोऽतिनृशंसकर्म' इति पाठा० ।। ५. 'प्रगल्भा ।।' इति, 'सधैर्या' ।। इति च पाठा० ।।