________________
१३२
चन्द्रराजचरित्रम् किं पारिजातादुदपादि मन्त्रिन् !,
___मत्तः सुतेयं विषपुष्पकल्पा' । यत्स्पर्शमात्रेण बभूव कुष्ठी,
जामातृकायो विधिना हतोऽहम्' ।। १४२ ।। कृताञ्जलिस्तं निजगाद मन्त्री,
'राजन् ! स कुष्ठी खलु पूर्वकालात् । न रात्रिमात्रेण कदापि कुष्ठात्,
दुर्गन्धिपूयैर्धियते शरीरम् ।। १४३ ।। न तेऽङ्गजाया अपि लेशमात्रो,
दोषोऽत्र जानीहि विमुञ्च रोषम् । न च त्वया खेदयितव्य आत्मा,
स्वो हिंसकाऽऽविष्कृतकैतवोऽयम्।। १४४ ।। इत्थं भृशं मन्त्रिवरेण राजा,
सम्बोधितोऽप्याप न शान्तिलेशम् । तदा 'यथेच्छं कुरु भूपते ! त्व
मित्थं निगद्यैष बभूव तूष्णीम् ।। १४५ ।। श्रीप्रेमला शोकपरीतचित्ता,
मातुः समीपे समुपाजगाम । विलोकयित्वैव जुगुप्सया सा,
मुखं परावृत्त्य तदैव तस्थौ ॥ १४६ ।।
१. 'दुर्गन्ध एवं मम कन्यकाऽभूत्' इति पाठा० ।। २. 'यत्स्पर्शतो मे हि' इति पाठा० ।। ३. 'न यामिनीमात्रत एतदीयं, दुर्गन्धिपूयाकलितं शरीरम् ।।' इति पाठा० ।। ४. 'दोषोऽस्ति, सर्वः कपटोऽयमस्ति ।' इति पाठा० ।। ५. 'नैवं' इति पाठा० ।। ६. '-वेऽत्र' इति पाठा० ।। ७. 'माताऽपि सत्यं विषकन्यकेय-मिति प्रतीत्या न जगाद किञ्चित् ।।' इति पाठा० ।।