________________
सर्गः ३
-
मेनेऽथ तथ्यं मकरध्वजोऽपि,
कन्यां तथैवाऽहितकारिणीं ताम् ।
क्रोधाच्च तस्या' हननोद्यतः स,
३
तदाऽवनीशोऽजनि रुट्परीतः ।। १३७ ।।
कृताञ्जलिः श्रीकनकध्वजोऽथ,
विज्ञापयामास महीशमेवम् ।
'तवाऽऽत्मजाया न च तत्र दोषः,
प्राक्कर्मणो मे परिणाम एषः ।। १३८ ।।
अतो वृथा त्वं विजहीहि रोषं,
जानीहि कन्यावधपातकं च ।
न स्त्रीवधात् पापमुदाहरन्ति,
परं किमप्यार्यजनाः महीश !" ।। १३९ ।।
निशम्य वाचं विरतस्ततः सो',
जगाद तं 'वत्स ! तवैव वाक्यात् ।
१३१
सुतां हनिष्यामि न, किन्तु तावद्
विचारणीयं खलु वर्तते मे' ।। १४० ।।
तदैव गत्वा स्वगृहं सुबुद्धि
ममात्यवर्यं प्रजुहाव राजा ।
प्रतीहि कन्येति ममाऽऽप्तमन्त्रिन् ! ।। १४१ ।।
जगाद तस्मै 'विषकन्यकेयं,
१. 'क्रोधात् स्वपुत्र्या' इति पाठा० ।। २. 'यदाऽ-' इति पाठा० ।। ३. 'भूरिवेगात्' इति पाठा० ।। ४. 'समस्ताः' इति पाठा० ।। ५. 'प्रजहर्ष राजा' इति पाठा० ||