________________
१३०
चन्द्रराजचरित्रम् संक्षोभमाप्ताऽथ महाधिमग्ना,
लग्ना विचारे मुनितां नु याता' ।। १३१ ।। सौराष्ट्रदेशाधिपतिर्निशम्य,
वार्ता, समागाच्चकितान्तरात्मा । जामातरं वीक्ष्य जगा वयं किं',
__जातो विरूपो विधिदुर्विलासात् ? ॥ १३२ ।। लावण्यराशिः परिदृश्यते स्म,
योऽयं कथं कुष्ठरुजाऽभिभूतः ? ।' पृच्छन्तमेवं पृथिवीपतिं तं,
विषण्णचित्तो निजगाद मन्त्री ।। १३३ ।। 'वक्तव्यतामञ्चति नो प्रवृत्ति
रियं तथाप्युक्तिमयै, क्षमस्व । दृष्टस्त्वया कामसमानकान्तः,
कुमारकल्पो यदसौ कुमारः ।।१३४ ।। तवाऽऽत्मजासङ्गतिमेत्य राजन् !,
अजायतांऽसौ किल कुष्ठरोगी । नूनं त्वया साऽतिकुलक्षणा मे,
सुताय दत्ताऽस्ति कुलक्षयाय' ।। १३५ ।। यां शुक्तिकामौक्तिकमेव जानन्,
न स्थापयः स्वालयके महीप ! । तत्स्पर्शमात्रेण बभूव चित्रं,
कुष्ठी सुरूपः स कुमाररत्नम् ।। १३६ ।। १. 'मुनिभावमाप ।।' इति पाठा० ।। २. 'कथं क्षणेन' इति पाठा० ।। ३. '-रियं तथापीति वदामि राजन् ! ।' इति पाठा० ।। ४. 'तवाऽऽत्मजापाणितलस्य सङ्गा-दजायता-' इति पाठा० ।। ५. 'सा सुन्दरी ते विषकन्यकाऽस्ति, शुभङ्करा नैव कदाऽपि राजन् ! ।।' इति पाठा० ।। ६. 'यां शुक्तिकामौक्तिकमेव जानन्, संस्थापयस्यालयके महीप ! । तत्स्पर्शमात्रेण बभूव चित्रं, महासुरूपः स कुमाररत्नम्।।' इति पाठा० ।।