________________
सर्गः - ३
१२९ श्रुत्वैव मन्त्री सहसाऽऽजगाम,
स्खलंस्त्वरावान् कृतकाकृतिः सन् । श्रीसिंहलेशोऽथ कुमारमाता,
दुद्राव संश्रुत्य वचस्तदीयम् ।। १२६ ॥ दृष्ट्वा कुमारस्य वपूरुरोद,
कश्चिद्धरण्यां निपपात कश्चित् । शिरः क्षितौ द्राक् प्रबभञ्ज, मुष्टया,
सन्ताडयामासुरुरोऽपि केचित् ॥ १२७ ।। कुमारमाता रुदती जगाद,
'कुतस्त्वया हा विषकन्यकेयम् । विवाहिता, या प्रथमे प्रसङ्गे,
त्वां कुष्ठरोगेण युतं चकार ॥ १२८ ।। हा वत्स ! त्वद्रूपमनन्यतुल्यं,
द्रष्टुं यदाऽऽगुः क्षितिपा विदेशात् । क्व तेऽद्य यातं विषकन्यकेयं,
जानामि ते प्राक्तनजन्मशत्रुः ।। १२९ ।। हा यस्य रूपं प्रसमीक्ष्य चन्द्रो,
जडत्वमासाद्य बभूव पाण्डुः । तावाश्विनेयौ परिखिन्नवक्त्रौ,
गतौ दिवं जातु न चाऽऽगतौ तौ ।। १३० ।। तत्र स्थिता सा कपटं समग्रं,
विलोकमाना ननु राजपुत्री ।
१. 'स्खलंस्त्वरासम्भ्रमतोऽप्यजस्रम् ।' इति पाठा० ।। २. 'लोकान्तरं जग्मतुरञ्जसा हि' इति पाठा० ।।