________________
सर्गः - ३
१३३ पृष्टाऽपि किञ्चिन्नहि रोषपूर्णा,
माताऽपि दौर्हद्यमिता निमेषात् । प्रत्युत्ततार प्रसभं लुनीते,
सौहार्दमारादविवेकशस्त्री' ॥१४७ ॥ क्रोधारुणाक्षो निजरक्षकान् सो,
भूपः समाहूय समादिदेश । 'चाण्डालहस्ते विषकन्यकेयं,
समर्प्यतामाशुतरं वधाय' ।। १४८ ।। तदैव ते राजसुतां गृहीत्वा,
चेलुर्न राज्ञो हृदये दयाऽभूत् । आस्तामपत्यं, किमु तेन, तस्य
दोषाद् विरक्तं यदि तत्र चित्तम् ।। १४९ ॥ चतुष्पथे तां प्रसमीक्ष्य केचि
च्चाण्डालहस्ते पतितां महेभ्याः । आदाय तां राजसभां समागु'
विज्ञापयामासुरथो नृपालम् ।। १५० ।। 'राजन्न दण्ड्येयमनाविलस्व
भावाऽत्यनागा: पुरवासिदृष्ट्या । १. 'पृष्टाऽपि किञ्चिन्नहि साऽप्युवाच, यद् दैवदग्धस्य जनस्य सर्वः । करोत्युपेक्षां, जनयित्र्यपि प्राग, न तामवोचत् किमुताऽन्यलोकः ?' इति पाठा० ।। २. "बिम्बारुणाक्षो नृपतिः कुटुम्ब-वर्गं समाहूय जगाद चेत्थम् । चाण्डालहस्ते विषकन्यकेयं, समर्प्यतामाशु विनाशनाय ।।, इतोऽग्रे "-सोऽपि ('चाण्डालो-ऽपि' इति टि०) द्रुतं तीक्ष्णकृपाणपाणि-र्वध्यावनीमर्चतु सावधानः। तदीय-रक्तैर्गलितैः कबन्धान्ममाऽऽज्ञया साम्प्रतमेव तावत् ।।' इति निष्कासितः श्लोको दृश्यते ।। ३. 'न कोऽपि तस्या वचनं शृणोति, स्म प्राणहानौ न सहायको हि ।।' इति पाठा० ।। ४. '-हि पौराः' इति पाठा० ।। ५. 'समागाद्' इति पाठा० ।।