________________
१२६
चन्द्रराजचरित्रम् इतीरयित्वा कनकध्वजोऽस्याः,
शय्यां समाशेत जुगुप्स्यगात्रः । दूरं ततो मङ्क्ष गलत्प्रतीक
शुनोऽतिहिंस्राद् जनतेव साऽपैत् ॥ १११ ॥ सद्गन्धिपुष्पस्य जिनस्य मूर्ध्नि,
स्थितिर्न चेद् भूमिविशीर्णता स्यात् । द्वयी गतिस्तद्वदपांसुलानां,
स्त्रीणां पतिश्लेषणमग्निवेश:२ ।। ११२ ।। 'जुगुप्सयाऽतोऽर्हसि नाऽवमन्तुं,
मया रसादेहि रमस्व बाले ! । चिराय यनाद् विधिना कृतोऽयं,
सम्बन्ध' एवं स जगाद कुष्ठी ।। ११३ ॥ 'नदीतरङ्गप्रतिमं च लोलं,
वर्वर्ति बाले ! ननु यौवनं यत् । रमस्व, मानः प्रथमप्रसङ्गे,
पत्यौ विधेयो न कदापि नार्या ।। ११४ ॥ सौराष्ट्रदेशाधिपतेः कुमारी,
त्वं, सिंहलस्याऽधिपतेः कुमारः । अस्मि, प्रिये ! ऽनुग्रहतो विधातु
___ोगो मनोज्ञोऽयमभूदिदानीम्' ॥ ११५ ।। १. '-शय्यां समारुक्षदसत्यमायो । तदैव सोत्थाय महोक्षभीता, दूरेऽभवद् गौरिव सा नवोढा ।।' इति पाठा० ।। २. 'द्वयी गति विद्यत- ('विष्टप' इति पाठा०) एवमस्ति, सत्याः पति श्लेषणमग्निवेशः ।।' इति पाठा० ।। ३. 'अये ! किमर्थं परिवृत्य तिष्ठ-स्याऽऽगच्छ संक्रीड हस प्रिये ! त्वम् ।' इति पाठा० ।। ४. 'हि' इति पाठा० ।।