________________
सर्गः
इत्थं निगद्याऽऽशु करं यदाऽस्या
-
३
श्चकर्ष भूपालकुमार एषः ।
तदैव तिर्यक् परिवृत्त्य तस्मै,
चुकोप सौराष्ट्रपतेः कुमारी ।। ११६ ।।
'पापिष्ठ ! दूरे मम तिष्ठ भग्न
ढक्कानिभो भासि' ममाऽग्रतस्त्वम् 1
कथं विरूपं विवरे पिता त्वां,
-
संस्थापयामास लघिष्ठ ! कुष्ठिन् ! ।। ११७ ।।
प्रासोष्ट या त्वां जननी कथं सा,
sषीन्न, का त्वां वृणुते कुमारी ।
उत्तिष्ठ रे मूढ ! सुरेन्द्रयोग्यं,
नृपात्मजत्वं नहि कुष्ठिनस्ते,
कथं कु- बेरस्त्रपसे न काङ्क्षन् ।। ११८ ।।
क्षीरोदजातं गरलं परे क्व,
१२७
मादृग्जनाराध्यपदप्रदं स्यात्' ।
कु - बेरमित्रादुपयुज्यतां रे ! ।। ११९ ।।
आशां विधत्से मम सङ्गमस्य,
विलोकय स्वं प्रथमं वपुस्त्वम् ।
काकः कदाचित्किमु पद्मिनीं वा',
मरालभोग्यां लभते लघिष्ठ !' ।। १२० ।।
१. 'ढक्केव संभासि' इति पाठा० ।। २. 'उत्तिष्ठ रे मूढ ! न मौक्तिकस्य, माला कुरूपस्य गले विभाति ।।' इति पाठा० ।। ३. शय्यां समारुह्य विलोकयंस्त्वं, मां किं वधूमिच्छसि संविधातुम् ? । सुवर्णकुम्भे किमु संस्थितोऽपि, लभेत काको गरुडस्य शोभाम् ।।' इति पाठा० ।। ४. ' - चिन्नहि' इति पाठा० ।। ५. 'हि' इति पाठा० ।।