________________
सर्गः ३
सा प्रेमलैवं परिचिन्तयन्ती,
-
यदाऽस्ति तस्मिन् समये कुमारः ।
अमात्यवर्यानुमतः स' तत्र,
समाययौ श्रीकनकध्वजाख्यः ।। १०६ ।।
समाव्रजन्तं प्रविलोक्य दूरात्',
प्रत्युज्जगाम स्वपतिं भ्रमाद् द्राक् ।
किन्त्वाननालोकनजान्यताधीः,
सती पतिं नैव बुबोध तं सा ।। १०७ ।।
उवाच 'कस्त्वं ? गृहविभ्रमस्ते,
जातोऽस्ति, येनाऽत्र समागतोऽसि ' ।
इत्थं ब्रुवाणां निजगाद कुष्ठी,
'शक्नोति नाऽऽगन्तुमिहाऽन्यलोकः ।। १०८ ।।
समीरणोऽप्यत्र सशङ्क एव,
वाति प्रिये ! मां क्षणतः कथं त्वम् ।
जानासि नाऽद्यैव, कथं त्वयेयं,
१२५
प्रीतिर्मदीया ननु रक्षितव्या ? ।। १०९ ।।
लावण्यवत्याकृतिरस्ति, नो ते,
बुद्धिर्यतो मां न हि वेत्सि मुग्धे ! ।
का नाम बाला परिणीय रात्रौ,
समागतं वेत्ति पतिं न धीरा' ।। ११० ॥
१. ' - तो हि' इति पाठा० ।। २. 'सा तं' इति पाठा० ।। ३. ' - पतिं विचिन्त्य '
इति पाठा० ।। ४. 'तदाननं सा निपुणं निरीक्ष्य, पतिं न मेने निजमिद्धबुद्धया ।।' इति पाठा० ।। ५. 'प्रज-' इति पाठा०
।। ६. 'बाले !' इति
पाठा० ।।