________________
१२२
चन्द्रराजचरित्रम् चतुष्पथे सञ्चरिताश्च लोकाः,
परस्परं प्रोचुरिति प्रकाशम् । 'आभा न साऽऽभानगरस्य भाति,
ग्रस्तेन्दुकान्तिप्रतिमेयमद्य ।। ९१ ॥ आभानरेशो न विलोक्यतेऽसौ,
चन्द्रोऽव्रजत् क्वेति विचारणीयम् । निशम्य तत्कोऽपि रहोऽस्य कर्णे,
जगाद तद्वीरमतीप्रभावम्' ।। ९२ ।। आकर्ण्य ते, चन्द्रनृपं गवाक्षे,
विलोक्य नेमुः खलु पञ्जरस्थम् । निरीक्ष्य तानश्रुजलं मुमोच,
राजा विषीदद्धृदयोऽतिगाढम् ॥ ९३ ।। संश्रुत्य तद् वीरमती कुतोऽप्या
जगाम यत्राऽस्ति गुणावली सा । 'किं त्वं गवाक्षे कुरुषे ? कथं वा
__ऽमुं ताम्रचूडं न्यदधा अमुत्र ? ॥ ९४ ।। सञ्जीवनं चेदभिलष्यसि त्व
ममुष्य तन्नो नगरे प्रकाशम् । कुरुष्व मूर्खे ! न शुभाय ते स्यात्
रहस्यभङ्गो मम विद्धि नूनम् ।।९५ ।। वातायनादौ न पुनस्त्वयेत्थ
मानीय लोकस्य निवेद्य एषः ।
१. 'कुरुष्व रे मुग्धतरे ! प्रकाशाद्, गुप्तस्य नैवाऽस्ति फलं कदाऽपि ।।' इति पाठा० ।। .