________________
सर्गः ३
मनस्विनां यद्व्यसनेषु धैर्यं,
सहैव मौनेन समामनन्ति' ।। ८६ ।।
यदुग्रशब्दः किल कर्णगामी,
पुराऽप्रियोऽभूत् प्रिय ! ते शयालोः ।
तदीयरूपं प्रतिपद्य स त्वं,
कथं मुहू रौषि तदेव रागात्' ।। ८७ ।।
त्वदीयशब्दश्रवणं विमातुः,
सुखायते वामविचेष्टिताया: ।
श्रवः पथे मे शितकुन्तधारा,
शतायते हाऽत्र विधिर्बलीयान्' ।। ८८ ।
रात्रिंदिवं प्रीतिपरीतचित्ता,
अबोधि राजा सकलं, परन्तु,
गुणावली शोकमवाप दीर्घम् ।
१२१
करोतु किं हा परवांस्तदाऽसौ ।। ८९ ।।
'संवीक्ष्यतां पूरिति साऽन्यदा तं,
गवाक्षजाले सुदती निधाय ।
तस्थौ जनालापमसौ निशम्य,
पक्षी प्रियां प्रेक्ष्य भृशं शुशोच ।। ९० ।।
१. 'कथं पुनस्त्वं हि तदेव वाक्यं, चोकूयसे प्राणपते ! ऽधुनाऽपि ।।' इति पाठा० ।। २. अस्य श्लोकस्थाने - 'प्राणेश ! यस्मिन् समये रसेन, शय्या - 1 -स्थितस्त्वं रमणं व्यकार्षीः ('व्यधत्था:' इति पाठा० ) । शब्दस्तदा ताम्रशिखस्य कर्णे ('यस्य' इति पाठा० ), विषायते ते श्रवणे ('हृदये' इति पाठा० ) शयालोः ।। विधेर्नियोगादधुना तदीयं रूपं तवाऽभून्नहि कर्मरेखा । केनाऽपि संचालयितुं नु शक्या, बोभूयते क्वाऽपि कदाऽपि नाथ ! ।।" इति निष्कासितौ द्वौ श्लोकौ दृश्येते ।।