________________
१२०
रामं हरिं पाण्डवकूणिकादीन्',
यत्कर्तृ कर्मैव विचित्ररूपान् ।। ८१ ।।
करोति यत् कर्म न कोऽपि तस्य,
निवारणे शक्ततरोऽस्ति लोकः ।
इत्थं मदीयां हृदये निधाय,
शिक्षामथैनं परिपालयस्व' ।। ८२ ।।
निगद्य साधुः प्रययौ यथेष्टं,
गुणावली तद्वचनात् तदैव ।
तनूचकाराऽऽधिमथ स्वभर्तुः,
चन्द्रराजचरित्रम्
वाक्कायहद्भिः कुरुते स्म सेवाम् ।। ८३ ।।
यदा प्रभाते किल तारतार
स्वरैर्जगौ ताम्रशिखस्तदाऽसौ ।
तल्पात् समुत्थाय भृशं रुरोद,
गुणावली तद्वचनं निशम्य ।। ८४ ।।
'क्षणे क्षणे त्वं न वदस्व ताम्र
चूड ! प्रभाते न हि तेन तेऽस्ति ।
दुःखं, पुनर्मे तु तदेव वाक्यं,
मर्माविदत्यर्थमिदं न वेत्सि ? ।। ८५ ।।
न कातरत्वं समवाप्य नाथ !,
कदापि दीनं वचनं न्यगादीः ।
१. सूर्यं विधुं शङ्करमिन्द्रविष्णू' इति पाठा० ।। २. 'करोति' इति पाठा० ।। ३. 'सेवापराऽभूत् सकलं विहाय ।।' इति पाठा० ।। ४. 'वज्रायते नाथ महस्रशोऽपि । ।' इति पाठा० ।।