________________
सर्गः
३
'अनेन किं तेऽपकृतं कृशाङ्गि !,
यत्पञ्जरेऽमुं निरुणत्सि वत्से ! ।
यद्यप्यदः पञ्जरमस्ति हैमं,
तथाऽपि कारागृहमेव चाऽस्य ।। ७६ ।।
अतो विमुञ्चैनमसौ सदैव,
विहिंसकः पापमतिः शकुन्तः १ ।
प्रभातकालेऽस्य मुखं कदापि,
न पश्यति प्राज्ञतरो मनुष्यः ' ।। ७७ ।।
गुणावली तद्वचनं निशम्य,
प्रोवाच 'नाऽयं कृकवाकुरस्ति ।
पतिर्ममाऽयं समभूद् विमातुः,
कोपेन पक्षी विधिवामताया: २ ।। ७८ ॥
अतोऽस्य यत्नात् परिरक्षणं हि,
करोमि, मोक्ष्ये न कदाऽपि चैनम् ।'
संश्रुत्य साधुः कथयाञ्चकारा
'ऽज्ञानाद् मयाऽभाणि शुभे ! तवेत्थम् ।। ७९ ।।
युक्तं कृतं नैव नृपे तयेत्थं,
११९
शोकं वृथा मा कुरु राजपुत्रि ! |
त्वच्छीलतोऽयं भविता मनुष्यः,
पुनः प्रजापालनलब्धकीर्तिः ४ ।। ८० ।।
राजा खगोऽभूत् पदमस्य चाऽन्यो,
भुनक्ति, हा कर्मफलं बलीयः ।
१. ‘सदैव' इति पाठा० ।। २. 'क्रोधेन पक्षी मम भाग्यदोषात्' इति पाठा० ।।
३. 'वीरमत्या' इति टि० ।। ४. 'पुनर्महाराजपदप्रशास्ता' इति पाठा० ।।