________________
११८
चन्द्रराजचरित्रम् 'नाथ ! त्वया खेदलवोऽपि नैव,
कार्यो, निजक्रोडतले सदैव । त्वां स्थापयामि प्रिय !, नैव दुःखे,
त्यक्ष्याम्यहं वाऽपि कदापि सत्यम् ।। ७१ ॥ त्वमेव मे प्राणसमोऽसि हीनां,
दीनां दशां वल्लभ ! प्रापितोऽपि । विना त्वयाऽहं न मुहूर्त्तमात्रं,
जीवामि, सत्यं तदवेहि नाथ ! ।। ७२ ॥ महत्तरस्यैव महाविपत्तिः,
क्षुद्रे कदाचिन्नहि जायते हि । न पुष्पवन्तौ परिहाय तारा
गणं वचित् संग्रसतीह राहुः' ॥ ७३ ॥ इत्थं प्रियं सा परिबोध्य, शोकं,
चकार चित्ते, कृकवाकुवर्यम् । विनाऽन्यतोऽसौ रमते व चाऽपि,
नाऽस्मिन् सदाऽऽसक्तमना बभूव ।। ७४ ।। अथैकदा कोऽपि मुनिः प्रशान्तो',
भिक्षार्थमागाद् गृहमेतदीयम् । स पञ्जरस्थं प्रविलोक्य ताम्र
चूडं जगादाऽऽशु नृपालकान्ताम् ।। ७५ ।।
१. 'त्वमेव मे प्राणतरस्त्वमेव, प्रियो, न ते क्वाऽपि वियोगतोऽयम्। जीविष्यति प्राणजनोऽयमित्थं, जानीहि सत्यं प्रवदामि नाथ ! ।।' इति पाठा० ।। २. 'मुनिर्विशुद्धो' इति पाठा० ।। ३. 'भवने हि तस्याः ।' इति पाठा० ।।