________________
सर्गः - ३
११७ विलोक्य तं वीरमती जगाद,
___'त्वमाऽऽनयोऽमुं पुरतः कथं मे ? ।। ६५ ।। दूरं विमुञ्चैनमये ! न रङ्गे,
भङ्गस्त्वया मे ननु संविधेयः । अद्याऽपि तेऽयं प्रिय एव चाऽऽस्ते,
येन त्वयेत्थं परिपाल्यतेऽसौ ॥६६ ॥ न तेऽधुनाऽपि प्रियसङ्गमाशा,
नष्टा, न चेत् पक्षिजने त्वयेत्थम् । प्रीतिः प्रमुग्धे ! क्रियते, ममाऽपि,
पुरो न लजां कुरुषे, व्रजेतः ॥ ६७ ॥ आज्ञा मदीयामनवाप्य नैष,
आनीयतां मे पुरतः कदापि ।। गच्छाऽद्य शीघ्रं निबधान यत्नैः,
सत्पञ्जरे भोक्तुममुं स्वकर्मः' । ६८ ॥ गुणावली तद्वचनात् तदैव,
. प्रियं तमादाय गृहं स्वकीयम् । उपेत्य च स्वर्णमये निधाय,
सत्पञ्जरे पालयति स्म यत्नैः ॥ ६९ ॥ सुवर्णपात्रे ददते स्म तोयं,
सुपक्कसुस्वादुफलादि चापि । क्षणे क्षणे कुङ्कमतोयतोऽस्य,
प्राक्षालयत् पक्षमसौ च राज्ञी ।। ७० ॥ १. 'सत्पञ्जरेऽमुं ललनेऽतिमुग्धे !' इतिं. पाठा० ।। २. 'तं' इति पाठा० ।। ३. "पिबति' इति पाठा० ।। ४. 'भुङ्क्ते' इति पाठा० ।।