________________
११६
चन्द्रराजचरित्रम् श्वश्रूपुरस्त्वं बहुसम्मताऽभू
रिदं फलं तस्य समापपात । चन्द्रोऽधुना ताम्रशिखो बभूव,
न कोऽपि तन्मार्जयितुं क्षमोऽस्ति ।। ६० ॥ तस्मादिदं स्वे हृदये निधाय,
धैर्यं विधातव्यमयं सुमार्गः । चिराय संप्रार्थनया कदाचित्,
तुष्टा विमाता रचयेन्नरं तम्" ॥ ६१ ॥ इत्थं वयस्या' परिबोध्य देवीं,
निनिन्द खिन्ना हि विमातरं ताम् । गुणावली तं कृकवाकुमारा
निधाय नेत्राम्बु ससर्ज भूरि ।। ६२ ।। क्षणे स्वहस्ते हृदये क्षणं सा,
क्रोडे निधायाऽथ च ताम्रचूडम् । शुनो विडालात् परिपालयन्ती,
रात्रिन्दिवं तं पुरतो न्यधात् सा ।। ६३ । नवं फलं शीतजलं सदैव,
गुणावली यच्छति सोऽपि चञ्च्वा । आदाय चादाय समत्ति शोण
शिखी पिबन् यापयति स्म कालम् ॥ ६४ ॥ अथैकदा तं स्वकरे निधाय,
श्वश्रूपुरोऽगात् कृकवाकुमेषा । १. 'भुजिष्या' इति पाठा० ।। २. 'शीतं' इति पाठा० ।। ३. 'पयः' इति पाठा० ।।