________________
११५
सर्गः - ३ "हे देवि ! कस्याऽप्यपराधलेशो,
नाऽस्त्यत्र दोषो निजकर्मणोऽस्ति । यद्भावि रोध्यं न च तत्प्रयत्नैः,
__ तदत्र शोकेन कृतं चिरेण ।। ५५ ।। यद्भावि तज्जातमिहाऽस्ति नैव,
शोकः प्रतीकारविधिविनीते ! । अथेममारक्ष सुसावधाना,
व्रजेदनर्थं न परं यथाऽयम्' ।। ५६ ॥ यावत् किलाऽयं कृकवाकुरस्ति,
सुखी स तावत् किल चन्द्रभूपः । जानीहि ते देवि ! सदैव श्वश्रूः,
क्षेमङ्करा वर्तत एव तावत् ।। ५७ ।। शोकं कृथा मा धर धैर्यमग्र्यं,
माता यथा ज्ञातवती नहि स्यात् । कुर्यात् पुनस्त्वामवलोक्य चेत्थ
मत्यर्थमन्यत् किल चाऽन्यथा हि ।। ५८ ॥ तत्पञ्जरस्थं परिपालयैन,
कस्याऽपि चाग्रे वद नो कदाऽपि । वार्तामिमां, या भवितव्यताऽऽसीत्,
___ साऽभून भूयः परिशोचनीयम् ।। ५९ ।। १. 'अतो वृथा नार्पय दोषमन्य-स्मिन् दैवकृत्येऽत्र विशालबुद्धे ! ।।' इति पाठा० ।। २. 'विधिर्बलीयान्न च तत्र माता, भार्याऽपि वा तद्विपरीतकार्यम्। कर्तुं समर्थाऽस्ति, नहि प्रभोगाद्, विनाऽस्य शान्तिः परिदृश्यते हि ।।' इति पाठा० ।। ३. 'कुरु' इति पाठा० ।। ४. 'वदस्व किञ्चिन्नहि पालयैनं' इति पाठा० ।।