________________
११४
चन्द्रराजचरित्रम् स्थाले व भोज्यं सुरसं नु हैमे,
व्यात्ताननं क्वाऽद्य धराविलेखः' ? ।। ५१ ।। नखा नृपापीडमणिप्रभाभिः,
संभिन्नभासो व्यलसम्पदोर्ये । त एव तस्याऽऽयुधतामुपेताः
सीदन्त्ययोग्यस्थलमेत्य दैव !" ।। ५२ ।। गुणावलीत्थं गिरिनिर्झरीव
नेत्राम्बुधारां परिपातयन्ती । विलप्य मूर्छामगमत् क्व भर्तु
(रूप्यतः स्वास्थ्यभृता प्रिया स्यात् ।। ५३ ॥ ससम्भ्रमं काऽपि हिमोदकैस्तां,
सिषिञ्च काचित् पवनं चकार । संलब्धसंज्ञां व्यसनाब्धिमग्नां,
धैर्याय सख्यो जगदुः सखेदाः ।। ५४ ।।
१. 'विचित्रसुस्वादुरसाद्यमुष्णं, भोज्यं स्म भुक्ते हि सदैव योऽयम् । स उत्करे भस्मचिते विधात-र्विमार्गयत्यद्य कणं क्षुधातः ।।' इति पाठा० ।।, इतोऽग्रे'विचित्रसद्भावविभावितान्त-र्नवं नवं पद्यकदम्बकं यः । उवाच सोऽयं नियतं प्रभाते, प्रवक्ति कूकूक्विति शब्दमेव ।।' इति निष्कासितः श्लोको दृश्यते ।। २. 'सद्रत्नसङ्घातविभाभिरामं, सिंहासनं मण्डयति स्म योऽसौ । इतस्ततो भस्मचिते स तिष्ठ-त्यहो विधातः ! करुणा न तेऽस्ति।।' इति पाठा० ।।, इतोऽग्रे'अनेकरत्नाञ्चितहेमदोला-यां राजते रश्मिभिरन्यदा यः । आन्दोलितोऽभूत् स किलाद्य दैवाद्, दोधूयते पञ्जरमध्यवर्ती।।' इति निष्कासितः श्लोको दृश्यते ।। ३. 'विलप्य मूर्छामगमत् क्व भर्तु-वियोगतः स्त्री लभते हि शान्तिम् (धर्मम्पाठ०)' इति पाठा० ।। ४. 'संलब्धसंज्ञां मधुरैर्वचोभि-र्गुणावली बोधयति स्म दासी ।।' इति पाठा०।।