________________
सर्गः - ३
११३ गुणावली स्वं पतिमाप्तबुद्ध्या,
क्रोडे निधायाऽथ चिरं शुशोच । "यन्मस्तकं रत्नकिरीटयोग्य,
उच्चैः स्थिता शोणशिखाऽद्य तत्र' ॥ ४७ ।। यः सूक्ष्मवस्त्राञ्चितचारुदेहो',
भाति स्म सोऽयं खलु नग्न एव । पतत्रसङ्घातवृतावराङ्गः,
हीनां दशां कामगमद् विधात: !? ।। ४८ ॥ कृपाणबाणप्रमुखोग्रहेति
दयापरोऽरावपि सापराधे । जातोऽनुकम्प्यः स्वयमेव तस्य,
स्वसत्त्वहीनश्चरणायुधो हा ! ॥ ४९ ।। प्रातर्मुहुर्यः स्तुतिगीतिधीर
स्वरेण याति स्म विनिद्रभावम् । स्वयं स पौरस्य तदर्थमूषः
कालेऽवशो दैव ! हहा ! विरूपात् ।। ५० ।। विधे ! व्यधाः किं क्षणतस्त्वमित्थम् ?
___को नाम मन्तुः फलमेतदेवम् ।
१. 'यन्मस्तके रत्नकिरीटमाभात्, तस्यैव हा चर्मशिखा बभूव' इति पाठा० ।। २. '-देहरूपो' इति पाठा० ।। ३. 'पतत्रसङ्घातमसौ दधाति, पश्चात्प्रदेशेन हहा विधातः !' इति पाठा० ।। ४. 'कटिप्रदेशे निशितः कृपाणो, निबध्यते येन स एव राजा । बिभर्ति तीक्ष्णस्य नखस्य शोभां, पुनर्भवे हा बलवान् विधाता ।।' इति पाठा० ।। ५. 'सूर्योदये यो नियतं स्वतल्पा-दुत्तिष्ठति स्म क्षणदावसाने । ब्राह्मे समुत्थाय स पञ्जरस्थः, करोति हाँ कुक्विति तारशब्दम् ।।' इति पाठा० ।।