________________
११२
गुणावली ताम्रशिखं विलोक्य,
पतिं रुदत्याशु पपात मातुः ।
पदोः ' 'कथं मातरमुं विधत्से,
तिर्यञ्चमित्थं सहसे 'त्यवोचत् ।। ४२ ।।
'पुरा त्वमस्मिन् मयि चाऽप्यगाधं,
प्रेमाणमादर्शयसि स्म या त्वम् ।
सैवाऽधुना क्रूरतरं स्वभावं,
कथं प्रपन्ना जननि ! प्रसीद ॥ ४३ ॥
मानुष्यमाप्याऽपि हिताहितं नो,
चन्द्रराजचरित्रम्
जानाति योऽसौ खग एव सत्यम् ।
अतो विशेषाद विहगं विधाय,
३
नैवास्ति किञ्चित् फलमत्र मातः ! ।। ४४ ॥
अतः क्रुधं मुञ्च नरं विधत्स्व,
जाताऽस्य शिक्षा प्रबलाऽधुना हि ।
कुर्यात् पुनश्चेदयमित्थमेव,
यथेष्टमेनं खलु संविदध्याः' ।। ४५ ।।
श्रुत्वाऽवदद् वीरमती भृशं 'मा,
वदस्व नो चेद भविता तवाऽपि ।
खगत्वमित्थं प्रणिगद्य तस्माद्,
देशाद् ययौ वीरमती स्वगेहम् ।। ४६ ।।
१. 'पादे' इति पाठा० ।। २. 'गृहाण मातर्विनयं मदीयं, विनश्वरं पश्य जगत् समस्तम् । न क्वाऽपि राजा त्रिजगत्सु पक्षी, विलोक्यते श्रूयत एव नो वा ।।' इति पाठा० ।। ३. इतोऽग्रे - 'मह्या विहीनोऽपि युतोऽपि राजा, महीपतिः कथ्यत एव लोकैः । शस्त्री न चेच्छूरजनश्च शस्त्री, दन्ती न चेदुच्यत एव दन्ती ।।' इति निष्कासितः श्लोको दृश्यते ।। ४. 'कुर्यात् पुनश्चेदथ तर्हि मातर् ! इति
पाठा० ।।