________________
१११
सर्गः - ३ भज्येत कर्णो यदि तर्हि किं स्याद्,
हिरण्मयेनाऽपि विभूषणेन ? ।। ३६ ।। अन्यत्र किं नास्य बभूव कर्णो,
मच्चेष्टिते यत्र्यपतत् प्रगल्भम् । मदीयरन्ध्रस्य विशोधतोऽयम्,
भुनक्तु मिष्टं फलमद्य सद्यः' ॥३७ ।। इतीरयित्वाऽस्य गलेऽथ खड्ग
धारामसौ मुञ्चति यावदेव । अस्याः करं तावदजस्त्रमश्रु
धारां त्यजन्ती निरुरोध राज्ञी ।। ३८ ॥ 'जीवप्रदानं कुरु मे विधाय,
कृपां, त्यजैतं तनयं प्रमुग्धम् । विचार्य नाऽयं तव कोपहेतुं,
व्यधाद् विधाता न तथा पुरस्तात् ।। ३९ ॥ क्षणं विचार्य प्रविलोकय त्व
मेतं विना राज्यमिदं विशालम् । शास्ता भवेत् कः । पुरुषं विना नो,
विभाति सम्यक् खलु राज्यलक्ष्मीः' ॥ ४० ॥ इत्थं वधूवाक्यत एव कण्ठा
· दुत्तार्य खड्गं सहसा विमाता । संमन्त्र्य रज्जु प्रबबन्ध कण्ठे (पादे),
येनाऽभवद् द्राक् चरणायुधः सः ।। ४१ ।। १. 'मन्मस्तके गौशकृतं दधाति, भुक्तां स तस्मात् फलमस्य सद्यः' इति पाठा० ।। २. 'व्यधान्न पश्चात् प्रकरिष्यतीति ।।' इति पाठा० ।।