________________
११०
चन्द्रराजचरित्रम् प्रसीद मन्युं विजहीहि, तेऽथ-,
च्छिद्रं कदाचिन्न विलोकयेत ॥ ३१ ॥ विद्योग्रशक्तिर्ननु चाऽसि मातः!,
देवैस्तथाऽन्यैश्च सदाऽप्यधृष्या । ततो न ते रोष इहाऽस्ति युक्तः,
शक्तिः सतां पीडितरक्षणाय ।। ३२ ।। अयं पतिर्मे प्रियपुत्रतां ते,
समञ्चति प्राणसमानतां च । तव प्रसादाद् बहुसौख्ययोग्यो,
न दण्डनीयोऽपि तु पालनीयः२ ।। ३३ ॥ चेद् वाच्यमास्ते वद मां समस्त-,
माज्ञां करिष्ये सततं तवाऽहम् । न प्रार्थनां मोघयति क्व चाऽपि,
भवादृशी लोकविभूषणा या' ।। ३४ ।। इत्थं स्ववध्वा वचनं निशम्य,
सा तां जगादाऽऽशु बिभीषणास्या । 'दूरं व्रज त्वं नहि वेत्सि किञ्चित्,
त्यक्ष्यामि नैतं कुटिलं कदापि ॥ ३५ ॥ लक्षेण वा ते वचसो न चाहं,
__ मोक्ष्यामि, सत्यं प्रवदामि चैतत् । १. 'जहीहि कोपं द्विरदो न कीटे, रुषं कदाचिद् विदधाति नीचे । अतस्तृणेऽस्मिन् नहि शोभते ते, क्रोधः समाने खलु भाति सम्यक् ।।' इति पाठा० ।। २. 'तव प्रसादाद् विपुले च राज्ये, निःशङ्कितस्तिष्ठति मुञ्च तस्मात्' इति पाठा० ।। ३. '-वचनैरहं न' इति पाठा० ।।