________________
सर्गः - ३
१०९ नृपासने त्वामभिषिच्य चात्मनो,
विषद्रुमोऽरोपि विनिश्चितं मया ॥ २६ ॥ स्मराऽधुना यस्य बलेन तद्वच
स्त्वया समुक्तं, न परित्यजाम्यहम् । नराधम ! त्वामि'ति तस्य वक्षसि,
समारुहद्धन्तुमथोद्यतायुधा' ।। २७ ।।
(उपजातिवृत्तम् ११+११) इत्थं स्वभर्तुर्विषमां दशां सा,
विलोक्य भीता न्यगदद् विनम्रा । 'रोषं स्वकं संहर मातरस्मिन्,
भवेत् कुपुत्रो न पुनः कुमाता' ।। २८ ।। नाऽनेन किञ्चित् कृतमप्रियं ते,
विधीयते प्रत्युत भक्तिरेव । निरागसे दण्डधराऽपि माता,
व्रजेधुंवं दण्डधरात् प्रकर्षम् ।। २९ ।। आजन्म सौभाग्यमखण्डितं मे, .
यदीच्छसि त्वं जननि ! प्रकामम् । तदा विमुञ्चैनमहो तवाऽहं,
पदोः पतित्वाऽनुनयामि भूरि ॥ ३० ॥ मातर्न ते क्रोधहुताशनस्य,
ज्वालां विसोढुं कुशलो जनोऽयम् । १. 'समारुहत् खड्गकराऽरुणानना' इति पाठा० ।। २. 'मातर्न रोषं कुरु बालपुत्रे, महाजनस्त्वां प्रहसिष्यतीति' इति पाठा० ।। ३. 'न दोषलेशोऽपि किलाऽस्य मातनिरागसं हंसि कुतो मदीयम् । पति, यशस्ते क्षयमेष्यतीति, वृथा न कोपं कुरुते विधिज्ञा ।।' इति पाठा० ।। ४. 'पादे पतित्वा विनयं करोमि' इति पाठा० ।।