________________
१०८
चन्द्रराजचरित्रम् त्वयेतरा भर्तृमती जनन्यथो .
न जातु कार्या कुतुकेक्षणोत्सुका' ।। २१ ।। तदीयवाक्यं यदपि स्व्यकारि नो,
विधाय मायां प्रबलां, तथापि किम् । मृषा भवेल्लोचनगोचरीकृतं ?,
निषेधतोऽध्यक्षमसन्न जायते' ।। २२ ।। विधीयतां सम्प्रति किं वदस्व तद्,
रहस्यभाण्डं स्फुटितं यतः स्वयम्" । निशम्य तद्वाक्यमुवाच सा ततः,
न मुञ्च धैर्य न शुचं वृथा कुरु' ॥ २३ ॥ इतीरयित्वा 'प्रतिघारुणानना,
प्रगृह्य तीक्ष्णं करवालमाचलत् । उपेत्य चन्द्रं न्यगदत् 'त्वया किमु,
वधूः समुक्ता वद तत्पुरो मम ।। २४ ।। मदीयरन्ध्र किमु मूढ ! लोकसे ?,
समीक्ष्य तत् स्यात् किमु रे नराधम ! । मुखेन तुच्छेन कुतस्त्वमीदृशं,
___ मदन्तराविद् वचनं प्रजल्पसि ॥ २५ ॥ बिभेति देवोऽपि समस्त एव मद्,
बलं तवाऽऽस्ते वद कीदृशं महत् । १. 'विधेलिमा काऽपि न दर्शनोत्सुका' इति पाठा० ।। २. 'प्रमाणमन्यत् तदपेक्षते न हि' इति पाठा० ।। ३. 'रहस्यमेतद् विवृतं समस्तकम्' इति पाठा० ।। ४. 'कुरुस्व धैर्य' इति पाठा० ।। ५. 'तरुणा-' इति पाठा० ।।