________________
सर्गः
व्यधत्त' पाणिग्रहणं तदैव स,
३
नृपाङ्गजाया विमलापुरं गतः ।
मया भवत्यै कथितं तदैव यत्',
त्वया न तत् सत्यतयोपलक्षितम् ।। १७ ।
जगत्यनेका विदुषी महीयसी,
पुमांसमत्येतुमसौ प्रभुहि ।
पतिं स्वकीयं तच्छलयन्त्यहं स्वयं,
छले निमग्ना दुरदृष्टतो हहा ! ।। १८ ।।
छलेऽतिनिष्णैरपि यः परैर्नृपः
प्रतारितो जातु न स स्त्रिया कथम् । प्रतारणीयो, न हि सङ्गतं मया,
व्यधायि तावत् तव सङ्गदोषतः ५ ।। १९ ।।
त्वदीयवाक्यं न मया पुनस्तथा,
करिष्यते प्रेरितयाऽपि जातुचित् ।
कया स्वभर्तुर्विपरीतचेष्टितं,
१०७
विधीयते कोपनयाऽपि योषिता ।। २० ।।
विराजतां ते सकला कला ततो,
न मेऽधुना किञ्चिदपि प्रयोजनम् ।
१. 'विधाय' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. 'विचिन्तितं तच्छलयाम्यहं तदा, स्वयं च हाऽहं परिवञ्चिताऽभवम्' इति पाठा० ।। ४. 'विपक्षपक्षाश्रितभूभुजा च्छला-न्न वञ्चितो यः, स कथं स्त्रिया पुनः' इति पाठा० ।। ५. इतोऽग्रे - 'तदस्य मेऽभूत् फलमीदृशं, यया, सदैवमेव क्रियते, हि सा पुनः । ' अमूदृशं चेद् विदधीत कर्हिचिद्, भवेच्च मद्वद् विपदास्पदं तदा ।। ( ' प्रभुर्भवेत् कर्तुममूदृशं यदा, ममैव तत् स्याद् विपदास्पदं तदा । । ' इति पाठा० )