________________
१०६
चन्द्रराजचरित्रम् निःस्नेहमेवं हसता त्वयाऽहं,
बेभिद्यमानाऽन्तरिदं यथेष्टम् । जानामि यत् ते श्रवणेऽद्य कोऽपि,
प्राजञ्जबित्थं कथमन्यथोक्तिः ।। १२ ।। बहिः प्रतोल्या अपि नाऽगमं किं,
वृथैव मां दूषयसि प्रियाद्य ? । विषाक्तवाक्यं सुधया प्लवित्वा,
जने विमुग्धे मयि किं प्रयुक्षे' ॥ १३ ॥
(वंशस्थवृत्तम्) करेऽन्वथाऽऽबद्धविवाहकङ्कणं,
निभाल्य कान्तं भयविस्मयाकुला । विचिन्तयामास समस्तमेव सा,
चरित्रमेतद् विमलापुरोद्भवम् ।। १४ ।। तथाऽपि न स्वीकृतमेतया बहुं,
विधाय मायां परिभोज्य वल्लभम् । उपागमद् वीरमती गुणावली,
जगाद सर्वं च पतीरितं वचः ॥ १५ ॥ "मयि प्रकोपं कुरुते तवाऽऽत्मजो,
__ विबुध्य सर्वं विमलापुरोद्भवम् । उदन्तमेतस्य पुरोऽखिलं तव,
__ तृणायते कौशलमेतदम्बिके ! ।। १६ ।। १. 'जानामि कर्णे तव कोऽपि किञ्चित्, संजप्तवास्तेन वदस्यदस्त्वम् ।।' इति पाठा० ।। २. 'कराम्बुजे' इति पाठा० ।। ३. 'पतिं समालोक्य विषण्णमानसा' इति पाठा० ।। ४. 'स्वपतीरितं' इति पाठा० ।।